Bhajan that connects with spirituality...

Krishnastuti ।।अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं.....

                          श्री
 अधरं मधुरं, वदनं मधुरं, नयनं मधुरं, हसितं मधुरं
 ह्रदयं मधुरं, गमनं मधुरं, मधुराधिपते रखिलं मधुरं 

 वचनं मधुरं,चरितं मधुरं,वसनं मधुरं,वलितं मधुरं 
 चलितं मधुरं, भ्रमितं मधुरं,मधुराधिपते..... 

 वेणुर्मधुरो, रेणुर्मधुर:, पाणिर्मधुर‌:पादौ मधुरौ 
 नृत्यं मधुरं,सख्यं मधुरं,मधुराधिपते..... 

 गीतं मधुरं,पीतं मधुरं,भुक्तं मधुरं,सुप्तं मधुरं 
 रूपं मधुरं,तिलकं मधुरं,मधुराधीपते...... 

 करणं मधुरं,तरणं मधुरं,हरणं मधुरं,रमणं मधुरं 
 वमितं मधुरं,शमितं मधुरं,मधुराधिपते.... 

  गुंजा मधुरा,माला मधुरा,यमुना मधुरा,वीचीर्मधुरा 
  सलिलं मधुरं,कमलं मधुरं,मधुराधिपते.....

  गोपी मधुरा,लीला मधुरा,युक्तं मधुरं,मुक्तं मधुरं 
  दृष्टं मधुरं,सृष्टं मधुरं,मधुराधिपते.... 

   गोपा मधुरा,गावो मधुरा,यष्टिर्मधुरा, सृष्टिर्मधुरा 
   दलितं मधुरं,फलितं मधुरं,मधुराधिपते...

No comments:

Post a Comment